वृक्षाम्ल
Vrikshamla
Marathi :आमसोल
Hindi :कोकम
Gujarati :કોકમ
×
वृक्षाम्लं तिन्तिडीकं तु शाकाम्लं रक्तपूरकम् । अम्लवृक्षोऽम्लशाकं स्यादम्लपूरो महीरुहः ॥ अम्लोष्णं रोचनं रुक्षं दीपनं कफवातनुत् । तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित् ॥ वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् । गुरु पक्वं तु सङ्ग्राहि कटुकं तुवरं लघु ॥
कैयदेवनिघण्टु-ओषधिवर्ग 368-370