आमलक
Amalaka
Marathi :आंवळा, आवळा, आंवळी, आंवाले
Hindi :आमला, आंवला
Gujarati :આમળા
×
कषायमधुरो मज्जा कोलानां पित्तनाशन: । तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च ॥
सुश्रुतसंहिता, सूत्रस्थान 46.206
हरीतकीसमं धात्रीफलं किन्तु विशेषत: । रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ॥
भावप्रकाश-निघण्टु, हरीतक्यादि-वर्ग 39
कटु मधुरकषायं किञ्चिदम्लं कफघ्नं रुचिकरमतिशीतं हन्ति पित्तास्रतापम्। श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनममृतामं चामलक्या: फलं स्यात् ॥
राजनिघण्टु, आम्रादि-वर्ग 159