वासा
Vasa
Marathi :अडूळसा
Hindi :अरुसा, अरुषा, अडूसा, वसूटा, अडुलसा
Gujarati :અરડુસા
×
वासाटरूषः सिंहास्यो भिषङ्माताटरूषकः । शीतवल्ली सिंहपर्णी मातृका सिंहवल्लिका ॥ वृषः सिंही सिंहमुखी वासको वाजिदन्तकः । सिंहास्या तुवरा तिक्ता हृद्या स्वर्या हिमा लघुः ॥ वातला कफपितास्रश्वासकासहरा हरेत् । ज्वरमेहारुचिच्छर्दिकुष्ठतृष्णाक्षतक्षयान् ॥ क्षयघ्नं वातलं पुष्पं वृषजं कफपित्तजित् ।
कैयदेवनिघण्टु-ओषधिवर्ग 12-15(a)