वरुण
Varuna
Marathi :वायवरणा, भाटवर्णा
Hindi :वरुन, बरना, तपिया, बिलासी
Gujarati :વાયવરણો
×
वरुणो वरणः सेतुरुरुमाणः कुमारकः ॥ शाकद्रुम सेतुवृक्षो रोधवृक्षस्तमालकः । साधुवृक्षः श्वेतपुष्पस्तिक्तशाकश्चलापहः ॥ वरुणो मधुरस्तिक्तः कषायकटुको लघुः । रुक्षोष्णः पित्तलो भेदी दीपनः कफवातजित् ॥ निहन्ति कृमिवातास्रमूत्राघातास्रहृद्गदान् । पुष्पं पितास्रहृद् ग्राहि फलं स्निग्ध सरं गुरु ॥ स्वादूष्णं मधुरं पाके वातघ्नं कफपित्तजित् ।
कैयदेवनिघण्टु-ओषधिवर्ग 847-851(a)