वंश
Vamsha
Marathi :बांबू, वंश, वेळू, वासा, भरीव वेळू
Hindi :बाँस, नरबाँस, कोपार, बाँसकबन, बाँसखुर्द
Gujarati :બાંબુ
×
कीचको मस्करो वंशी सुपर्वा षट्पदालयः । वंशो वेणुर्यवफलस्तृणकेतुस्तृणध्वजः ॥ शतपर्वा शब्दमालः कर्मारस्त्वचिसारकः । वंशस्तु शीतलः स्वादुः कषायो वस्तिशोधनः ॥ छेदनः कफपित्तास्रकुष्ठशोफव्रणापहः । तत्करीरः कटुः पाके रसे रुक्षो गुरुः सरः ॥ कषायः श्लेष्मलः स्वादुर्विदाही वातपित्तलः । तद्यवास्तु सरा रुक्षाः कषायाः कटुपाकिनः ॥ उष्णाः पित्तानिलकराः बद्धमूत्राः कफापहाः ।
कैयदेवनिघण्टु-ओषधिवर्ग 133-137(a)