उदुम्बर
Udumbara
Marathi :उंबर, गूलर
Hindi :गूलर, ऊमर, परोआ
Gujarati :ઉંબરો, ગૂલર
×
उदुम्बरो हेमदुग्धो हरिताक्षो वसुद्रुमः ॥ सचक्षुर्मशकी क्षीरी क्षीरद्रुः शीतवल्कलः । यज्ञाङ्गको जन्तुवृक्षः सुप्रतिष्ठः सदाफलः ॥ अपुष्पफलसम्बन्धः काञ्चनो जन्तुमत्फलः । उदुम्बरो हिमो रुक्षः कषायो मधुरो गुरुः ॥ भग्नसन्धानकृद् वर्ण्यो व्रणशोधनरोपणः । स्तम्भनानि कषायाणि श्लेष्मघ्नानि हितानि च ॥ उदुम्बरशलाटूनि तृट्पितास्रहराणि च । उदुम्बरफलं बालं कषायं स्वादु शीतलम् ॥ तृण्मेहपित्तहृच्छर्दिप्रदरास्रश्रुतिं जयेत् । प्रौढं बहुमलं तस्य फलं गुरुतरं मतम् ॥ फलमौदुम्बरं पक्वं शीतलं मधुरं गुरु । क्षुत्तृष्णामेहहृद्रुच्यं श्लेष्मकृत् रक्तनाशनम् ॥
कैयदेवनिघण्टु-ओषधिवर्ग 424-430