अपामार्ग
Apamarga
Marathi :आघाडा
Hindi :चिडचिडी
Gujarati :અધારો
×
अपामार्गः शैखरिकः शिखरी खरमञ्जरी । अधःशल्यः क्षारमध्या दुर्ग्रहा दुरभिग्रहः ॥ आघाटः किणिही मार्गः प्रत्यक्पुष्पी मयूरकः । अपामार्गः कटुस्तिक्तस्तीक्ष्णोष्णो दीपनः सरः ॥ पाचनो वामनश्छेदी कफमेदोऽनिलापहः । निहन्ति शूलहिध्मार्शोकण्डूदद्रूदरापचीः ॥
कैयदेवनिघण्टु-ओषधिवर्ग 1032-1034